अभ्यासः ५ - गुणसन्धेः उदाहरणानि - Guna Sandhi Examples
Reference: https://youtu.be/XcB05BfQVF0
गुणसन्धेः दश उदाहरणानि ददतु (श्लोकेभ्यः पञ्च, स्वसरलसम्भाषणवाक्यानि पञ्च)।
उदाहरणम्
श्लोकेभ्यः
१. त्यक्त्वोत्तिष्ठ = त्यक्त्वा + उत्तिष् (आ + उ) - (गी.२.३)
२. नेमे = न + इमे (अ + इ) - (गी.२.१२)
३. नित्यस्योक्ताः = नित्यस्य + उक्ताः (अ + उ) - (गी.२.१८)
४. चोपपन्नम् = च + उपपन्नम् (अ + उ) - (गी.२.३२)
५. तदोच्यते = तदा + उच्यते (आ + उ) - (गी.२.५५)
स्वसरलसम्भाषणवाक्यानि (Max 3 words per sentence, Sandhi must be between words, not with in words, Only one Sandhi in one sentence)
१. फलं खादितुं लतेच्छति। लता + इच्छति (आ + इ)
२. सीतोक्तवती श्लोकं अद्य। सीता + उक्तवती (आ + उ)
३. अद्योक्तवान् आगच्छामि इति। अद्य + उक्तवान् (अ + उ)
४. अस्माभिः अत्र एवोष्यते। एव + उष्यते (अ + उ)
५. रामायर्णं न रोचते। रामाय ऋणम् (अ + ऋ)
यथा उपरि अस्ति, तथैव यथानियमं लिखन्तु।
उदाहरणानि गीतायाः श्लोकानां अन्यश्लोकानां वा, सरलसम्भाषणवाक्यानां वा, GP1 प्रथमपाठात् वा भवितुम् अर्हन्ति।
Note:
- Submit entire exercise answers as a single reply to this discussion.
- Try to use 'Devanagari' script until you learn to type. But eventually, we shall reply in Devanagari script.
- If any queries or doubts, do not reply here instead start a new discussion
- As you are GP1 students, you are expected to have very good knowledge of basic sentence formation. Please do not make mistakes in basic sentence formations like Vibhakti, Verb forms, etc...
- You are requested to correct others' answers or replies. Also not just here, If you know the answer for any discussion in the forum, start replying/interacting on any discussions.
धन्यवादः
🙏