नत्वा -नम्+क्त्वा, =प्रणम्य
सरस्वतीं - सरः वत् ज्ञानसारः अस्यां अस्तीति, सरस् + मतुप्, ताम् =वाग्देवी
देवीं - दीव्यति इति, प्रलयसमये स्वस्यां आत्मनि निवेश्य क्रीडति, सरस्वत्याः विशेषणम्, =देवताम्/ भगवतीं
शुद्धां - सरस्वत्याः/ लघुसिद्धान्तकौमुद्याः विशेषणम् = दोषरहितां
गुण्यां - प्रशस्ताः गुणाः सन्ति अस्या इति गुण्या , ताम्, सरस्वत्याः /लघुसिद्धान्तकौमुद्याः विशेषणम् = सत्वगुणयुक्तां
करोम्यहम् -करोमि +अहम् = वरदराजवर्यः करोति
पाणिनीयप्रवेशाय - पाणिनेः इदं, पाणिनीयम्, पणिनिये प्रवेशाय (सप्तमी तत्पुरषसमासः) = पाणिनिना प्रोक्ते व्याकरणशास्त्रे प्रवेशार्थं
लघुसिद्धान्तकौमुदीम् - लघ्वी चासौ सिद्धान्तकौमुदी च (कर्मधारय समासः), सिधान्तानां कौमुदी सिद्धान्तकौमुदी (षष्ठी तत्पुरुषः) = वैयाकरणानां सिद्धान्तानाम् प्रकाशः अस्मिन् भवति, सिधान्तः - सिद्धः अन्तः, कौमुदी - कोः मुदः, = चन्द्रः, कुमुदस्य इयं = ज्योत्स्ना
= अनेकशब्दसिद्धान्तार्थप्रकाशजनिका
अन्वयः - अहं शुद्धां गुण्यां देवीं सरस्वतीं नत्वा पाणिनीयप्रवेशाय (शुद्धां गुण्यां) लघुसिद्धान्तकौमुदीम् करोमि।
अर्थः - यथा ज्योत्स्ना तापः, तमः च रात्रौ उपशमयति, तथैव इयं अपि अज्ञानरूपं तमः दूरी करोति। एवं च त्रिमुनिव्याकरणग्रन्थजनित तापं उपशमय्य व्याकरणसिद्धान्तान् मनसि प्रकटयति।