क) मातृकापाठतः भेदाः
१ अक्षराणां क्रमः भिन्नः। आदौ स्वराः तत्परं व्यञ्जनानि - तत्रापि - प्रथमं अन्तस्थाः (य व र ल) तदनन्तरं वर्गस्य ५,४,३,२,१, अन्ते ऊष्मवर्णाः (श,ष,स,ह) - रचितानि सन्ति।
२ प्रत्येकं सूत्रस्य अन्ते व्यञ्जनं दृश्यते।
३ हकारः द्विवारम् उपदिष्टः ।
४ णकारोपि द्विवारं दृश्यते।
५ अनुस्वारः (ं), विसर्गः (🙂, जिह्वामूलीयः (दुXखम्), उपद्मानीयः (तपक्Xफलम्) अपि न।
६ दीर्घाक्षराणि कुत्रापि न दृश्यते। प्लुतान्यपि । ह्रस्व अकारैव दीर्घप्लुतौ ग्रहणमपि भवति ।
ख) माहेश्वरसूत्रेषु सूक्ष्मांशाः
१) इमानि सूत्राणि नटराजस्य नृत्यावसाने महेश्वरात् डक्कात् आविर्भुतानि सन्ति।
२) एनानि अष्टाध्यायाः बहिर्भूतानि सन्ति।
३) सूत्रेषु अल्पाक्षरम् अनुश्रियते। इत्युक्ते विषयः सङ्क्षेपरूपेण वर्तते।
४) सूत्राणि वेदानिव अपौरुषेयाणि ।
५) व्याकरणस्य आधारभूतानि इमानि सूत्राणि।
६) अत्र वर्णानां क्रमः प्रत्येकैस्य वर्णस्य धर्माधारेण क्रियते। समान धर्मयुक्तानां वर्णाः एकत्र निर्दिष्टाः सन्ति।