ashok
इत् संज्ञायाः प्रयोजनं किम्
१) वर्णानां लघुरूपेन निर्देशार्थं।
२) प्रत्याहार निर्माणार्थम्।
३) यद्यपि इत् वर्णानां लोपः भवति तथापि कार्यं तेषां निमित्तं कार्यं भवति । यथा ल्यप् इति प्रत्यये ल् प् च इत् संज्ञकौ स्तः। अत्र पकारेण ज्ञाप्यते अन्तिमरूपे त् अस्ति (उदा आगत्य, प्रकृत्य)। तथैव ल् एकः स्वरविशेषः। सूत्रकारेण एकं अपि अक्षरम् व्यर्थं न उपदिष्टम्।
४) इत् संज्ञकम् वर्णम् आश्रित्य विशिष्टरूपं निर्दिष्टम्। यथा - यत्र पकारः इत् संज्ञकः तत् पित् (उदा- सुप्)। एवमेव नित् कित् शित् टित् लित् इत्यादिनि सिद्ध्यन्ति। एतेषां अग्रेषु दत्तेषु सूत्रेषु विशिष्टं कार्यं उपदिष्टम् अस्ति (उदा- न ज्ञायते)।
२.केषाञ्चन धातु- प्रत्ययागमादीनाम् मूलरूपाणि दृश्यरूपाणि
अ) प्रत्ययाः
१) तिप् - ति
अस्मिन् प्रत्यये विद्यमानस्य इत् संज्ञकः पकारस्य लोपः यदा भवति तदा ति इति अवशिष्यते। अतः तिप् प्रत्ययस्य दृश्यरूपं ति।
२) तुमुन् - तुम्
अस्मिन् प्रत्यये विद्यमानस्य इत् संज्ञकः नकारस्य लोपः यदा भवति तदा तुम् इति अवशिष्यते। अतः तुमुन् प्रत्ययस्य दृश्यरूपं तुम्। अत्र उकारः इत् संज्ञकः न। अयं उकारः सरल उच्चारणार्थम् अपिच रूपरक्षणार्थं स्थापितः अस्ति।
३) क्तवतु- तवत्
अस्मिन् प्रत्यये विद्यमानस्य इत् संज्ञकौ ककार-उकारयोः लोपः यदा भवति तदा तवत् इति अवशिष्यते। अतः क्तवतु प्रत्ययस्य दृश्यरूपं तवत्।
४)ल्यप् - य
अस्मिन् प्रत्यये विद्यमानस्य इत् संज्ञकौ लकार - पकारयोः लोपः यदा भवति तदा य इति अवशिष्यते। अतः ल्यप् प्रत्ययस्य दृश्यरूपं य।
५) क्त - त
अस्मिन् प्रत्यये विद्यमानस्य इत् संज्ञकः ककारस्य लोपः यदा भवति तदा त इति अवशिष्यते। अतः क्त प्रत्ययस्य दृश्यरूपं त।
आ) धातवः
१) डुकृञ् - कृ
डुकृञ् इति उपदेशरूपे डु इति वर्णसमुदायः ञकारः च इत् संज्ञकौ। तेषां लोपः यदा भवति तदा कृ इति अवशिष्यते। अतः डुकृञ् धातोः दृश्यरूपं कृ।
२)इण् (गतौ) - एति
अस्मिन् धातौ विद्यमानस्य इत् संज्ञकः णकारस्य लोपः यदा भवति तदा इकारः अवशिष्यते। इकारस्य गुण सन्धिः भवति। अतः इण् धातोः दृश्यरूपं एति।
३)दाण् (दाने) - दा
अस्मिन् धातौ विद्यमानस्य इत् संज्ञकः णकारस्य लोपः यदा भवति तदा दा इति अवशिष्यते। अतः दाण् धातोः दृश्यरूपं दा।
४)आहॉऺंक् (त्यागे) - हा जहाति
अस्मिन् धातौ विद्यमानस्य इत् संज्ञकौ आकार- ककारयोः लोपः यदा भवति तदा हा इति अवशिष्यते। अतः दृश्यरूपं हा।
५) णीञ् (प्रापणे) - नी नयति
अस्मिन् धातौ विद्यमानस्य इत् संज्ञकः ञकारस्य लोपः यदा भवति तदा णी इति अवशिष्यते। अतः दृश्यरूपं णी।
६) शीङ् (स्वप्ने) - शी शेते
अस्मिन् धातौ विद्यमानस्य इत् संज्ञकः ङकारस्य लोपः यदा भवति तदा शी इति अवशिष्यते। अतः दृश्यरूपं शी।
३. इत्-संज्ञाप्रकरणे सोपानद्वयं आश्रितम्। एकेन सोपानेन क्रियते चेत् काऽऽपत्तिः?
इत् कार्ये सोपानद्वयं भवति।
आदौ केषां वर्णानां निष्कासनम् करणीयम् तेषां चयनार्थं सप्तसूत्रेषु इत् संज्ञकाः वर्णाः सूत्रकारेण उपदिष्टाः। एतानि सप्तसूत्राणि संज्ञासूत्राणि।
ततः ये वर्णाः चिताः भवन्ति तेषां अदर्शनम् भवति - तस्य लोपः इति विधि सूत्रेण।
१) यदा अनेन क्रमेण सूत्राणि विद्यन्ते तदा प्रक्रिया/प्रकरणम् स्पष्टा/स्पष्टं भवति। पृथक् पृथक् सुत्रैः प्राप्ताः इत् संज्ञकवर्णाः उपदेशे विद्यते चेत्, तर्हि आदौ सर्वे चिताः भवन्ति । ततः परं तेषां (सम्पूर्णस्य इत् संज्ञकस्य वर्णस्य/ वर्णसमुदायस्य वा) लोपः। (उदा - डुकृञ्)
२) यदि विधि सूत्रम् पृथक् न भवति, संज्ञा सूत्रेण सहितं भवति तर्हि सूत्रम् संक्षिप्तं न भवति।