ashok
हलन्त्यम् इत् संज्ञा विधायक सूत्रम्।
अनुवृत्तिः सहितः - उपदेशे अन्त्यम् हल् इत् (स्यात्)।
१. पदार्थाः
हल् (१.१) व्यञ्जनम्
अन्त्यम् (१.१) अन्ते भवम् इति= अन्तिमम्, हल् इत्यस्य विशेषणम्
इत् (१.१) संज्ञा
उपदेशे (७.१) आद्योच्चारणम् अ)आद्यानाम् उच्चारणम् (षष्ठी तत्परुषः) (शिवपाणिनिकात्यायन इत्यादीनां आद्यं उच्चारणम्) अथवा आ) आद्यं च तत् उच्चारणम् (कर्मधारय) (प्रथमोच्चारणं/ प्रथम वारम् यद् उक्तं) अथवा इ) धातु- सूत्र- गण -उणादि -वाक्य -लिङ्गानुशासनम् -आगम -प्रत्यय -आदेशाः उपदेशाः प्रकीर्तिताः।
२) उदाहरणानि
अ) अ ई उ ण् इति माहेश्वरसूत्रे अन्तिम व्यञ्जनस्य णकारस्य इत् संज्ञा भवति। ओ ऌ क् इत्यत्र ककारः इत्संज्ञकः। एवमेव चतुर्दशेषु माहेश्वर सूत्रेषु अन्तिम वर्णाः इत् संज्ञकाः
आ) इण्- गतौ , अन्तिम व्यञ्जनस्य णकारस्य इत् संज्ञा भवति।
दाण् - दाने, अन्तिम व्यञ्जनस्य णकारस्य इत् संज्ञा भवति।
णीञ् - प्रापणे, अन्तिम व्यञ्जनस्य ञकारस्य इत् संज्ञा भवति।
शीङ् - स्वप्ने, अन्तिम व्यञ्जनस्य ङकारस्य इत् संज्ञा भवति।
इ) सुप् - अन्तिम व्यञ्जनस्य पकारस्य इत् संज्ञा भवति।
३. विशिष्टः अभ्यासः
हलन्त्यम् इत्यत्र - तद् हल् यद् अन्त्यम् - कर्मधारय समासः भवति चेत् तर्हि आपत्तिः न भवति।
किन्तु हल् अन्त्यम् यस्य (तत् पदम् ) - एवं बहुव्रीहिः भवति चेत् तर्हि आपत्तिः भवेत् यतो हि तदा अग्रे “तस्य लोपः” इति विधि सूत्रेण सम्पूर्णपदस्य लोपः भवति ।