१. उपदेशेऽजनुनासिक इत् – १.३.२
पदच्छेद: =
उपदेशे – ७.१
अच् – १.१
अनुनासिक: - १.१
इत् – १.१
सन्धि: =
उपदेशे + अच् = पूर्वरूपसन्धि:
अच् + अनुनासिक: = जश्त्वसन्धि:
अनुनासिक: + इत् = विसर्गसन्धि: (लोप🙂
२. उपदेशे अनुनासिक: अच् विद्यमाना: धातव: =
लिखँ अक्षरविन्यासे = ’अँ’ इत् संज्ञा भवति।
भाषँ व्यक्तायां वाचि = ’अँ’ इत् संज्ञा भवति।
लेपृँ गतौ = ’ऋँ’ इत् संज्ञा भवति।
गमॢँ गतौ = ’ऌँ’ इत् संज्ञा भवति।
डुपचँष् पाके = ’अँ’ इत् संज्ञा भवति।
३. प्रतिज्ञानुनासिक्याः पाणिनीयाः
प्रतिज्ञा = प्रति + ’ज्ञा’ + आतश्चोपसर्ग – अङ् – टाप् प्रत्यय:
नित्य-स्त्रीलिङ्ग:
आनुनासिक्या: =
अनुनासिक = अनुगतो नासिकाम् अत्या
अनुनासिकस्य भाव: ष्यञ् प्रत्यय: = तद्धित: = आनुनासिक
पाणिनीया: =
पाणिनौ भक्तिरस्य छ इति।
पाणिनिना प्रोक्तं उपदिष्टं च।
प्रतिज्ञा + आनुनासिक्या: = सवर्णदीर्घसन्धिः