ashok
आदिरन्त्येन सहेता - इति सूत्रे 'अन्त्येन' पदस्य प्रयोजनं किम्? (तेन पदेन विना का आपत्तिः इति उदाहरणेन दर्शयतु)
इत्युक्ते - अन्तिम- इत् वर्णेन सह गृहीतः आदिवर्णः तयोः द्वयोः मध्ये विद्यमानानां वर्णानामपि च निर्दिशति ।
अन्त्यः इत्युक्ते, अन्ते भवः। यस्मात् अनन्तरम् किमपि नास्ति, परन्तु यस्मत् पूर्वम् अन्ये वर्णाः भवन्ति, सः अन्त्यवर्णः।
प्रत्याहारग्रहणे, मध्ये विद्यमानानाम् इत् वर्णानाम् ग्रहणं न क्रियन्ते।
उदा-
अच् - इति प्रत्याहरे,
अ आरभ्य च् पर्यन्तम् विद्यमानानाम् सर्वेषामपि वर्णानाम् (इत् वर्णान् विहाय, अ- औ , -इत्येतेषाम्) ग्रहणम् भवति।
मध्ये विद्यमानानाम् इत्वर्णानाम् ग्रहणं न क्रियन्ते।
अन्त्यनेन पदेन विना अस्ति चेत्, मध्ये स्थिताः इत्वर्णानाम् ग्रहणमपि दोषः भवति।
२. मम नाम्नि आदिवर्णाः त्रयः पृथक् पृथक् केषु प्रत्याहारेषु गृह्यन्ते?
पंकजवल्ली
प्- मय्, झय्, खय्, चय्, पय्, यर्, झर्, खर्, चर्, अल्, वल्, झल्,
ङ् - अम्, यम्, ञम्, ङम्, यञ्, अल्, वल्, रल्, अश्, हश्, वश्, मय्,
क् - अय्, अल्, यय्, मय्, झय्, खय्, चय्, यर्, झर्, खर्, चर्,
विशिष्टाभ्यासः
(माहेश्वरसूत्रेभ्यः) अनेन सूत्रेण कति प्रत्याहाराः निर्मातुं शक्यन्ते? कति प्रत्याहाराः शास्त्रे प्रयुक्ताः सन्ति?
माहेश्वरसूत्रेभ्यः ३१९ प्रत्याहाराः निर्मातुं शक्यन्ते। ४४ प्रत्याहाराः शास्त्रे प्रयुक्ताः सन्ति।