आदिरन्त्येन सहेता॥ १,१.७१॥
अन्त्येनेता सहित आदिर्मध्यगानां स्वस्य च संज्ञा स्यात्। यथाणिति अ इ उ वर्णानां संज्ञा। एवम्च् हल् अलित्यादयः॥
पदच्छेदः -
आदिः (१-१) अन्त्येन (३-१), सह(०), इता(३-१)
- एतत् संज्ञा सूत्रमस्ति - प्रत्याहारस्य निर्माणस्य सूत्रमस्ति।
सन्धिसमासादिविवरणम् -
आदिः + अन्त्येन = आदिरन्त्येन (विसर्गसन्धिः - रेफः)
सह + इता = सहेता (गुणसन्धिः)
अर्थः - अन्त्येन इता सहित आदिः मध्यगानां स्वस्य च संज्ञा स्यात्।
इत्युक्ते आदेः आरभ्य अन्त्येन पर्यन्त यद्यदस्ति तसय संज्ञा भवति।
यथा - अण् इति अ, इ, उ वर्णानां संज्ञा ।
तथैव हल्, अल् इत्यादयः ।
उदाहरणम् -
अ इ उ ण्
अण् प्रत्याहार
आदिः मध्यगाः अन्त्यम् इत्
अकारादारभ्य णकारपर्यन्तं ये ये वर्णाः सन्ति ते सर्वे वर्णाः अण् इत्यनेन उच्यन्ते।
अण् इति अ इ उ वर्णानां संज्ञा । अनेनैव प्रकारेण अन्ये अपि प्रत्याहाराः क्रियन्ते।
अत्र,
आदिः - माहेश्वरसूत्रे यः कोपि वर्ण (इत्संज्ञकभिन्नवर्णः)।(उदा - इक्, उक्……)
अन्त्य: - आदेः अनन्तरं विद्यमानः यः कोपि इत्संज्ञकवर्णः।(हल्, शल्…..)
ग्रहणम् - आदिः + मध्ये विद्यमानाः सर्वे इत्संज्ञकभिन्नाः वर्णाः।(झष्, जश्, खय् ……)
विशिष्टाभ्यासः
'प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात्' अत्र 'प्रसक्तस्य' पदाभावे काऽपत्तिरिति उदाहरणसहितं दर्शयतु।
अदर्शनं लोपः (१ १ ६०) इति सूत्रेण ‘प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात्।’ इति सूत्रार्थः दीयते मूले।
अदर्शनं इत्युक्ते अनुच्चारणम् - उच्चारणसून्यमेव निर्दिष्यतेत्र।
प्रसक्तस्य इत्यनेन सूत्रात् प्राप्तोच्चारणस्य इति ज्ञेयम्।
एवं तस्य लोपः (१ ३ ९) इति विधि सूत्रेण 'तस्य इतः लोपः स्यात्’ इत्यर्थः सम्भवति।
यदि प्रसक्तस्य इति पदम् नो चेत्,
उदा - अण् इति प्रत्याहारे णकारस्य लोपः स्यात् इत्येव वक्तुं शक्नुमः - न तु ककार लोपः वा पकार लोपः वा न वक्तुं शक्नुमः। अत्र ककारस्य वा पकारस्या वा अन्यस्य वा उच्चारणं न भवति। णकारस्यैव उच्चारणमत्रास्ति।
तदेव ‘प्रसक्तस्य’ इति पदस्य आवश्यकता।