please ignore my previous reply… i had no way of deleting it. kshamyatAm
१. अत्र का संज्ञा? कः संज्ञी?
ह्रस्वः, दीर्घः, प्लुतः एताः तिस्रः संज्ञाः एतेषु सूत्रेषु वर्तन्ते। एकः संज्ञी एव।
ऊ इति सज्ञी।
२. सूत्रे अच् पदस्य प्रयोजनं किम्? अजभावे उदाहरणसहितं काऽऽपत्तिः?
अच् इत्युक्ते स्वरवर्णाः एव। ह्रस्व-दीर्घ-प्लुत-संज्ञाः स्वराणामेव विद्यन्ते, न हि व्यञ्जनानाम्। सर्वाणि व्यञ्जनानि तु अर्धमात्रिकानि एव सन्ति।
एतस्मिन् सुत्रे अच् इति ह्रस्व-दीर्घ-प्लुतः इति संज्ञा न दत्तमस्ति चेत्, किम् दोषः भवति?- वयम् इति विषये उदाहरणसहितम् पश्यामः।
उदा:
कृष्ण३+ अत्र - प्लुतस्वरात् परः अच् वर्णः विद्यते चेत् संहितायां सत्याम् अपि सन्धिः न भवति।
अतः, कृष्ण अत्र एव। अत्र अकः सवर्णे दीर्घः इत्यनेन सवर्णदीर्घः न भवति।
विशिष्टाभ्यासः
किमर्थं ऌकारस्य दीर्घाभावः वर्णमालायाम्?
लृ इति अव्ययम् इत्यहम् मन्ये । (Apte/ KST)
लृ -लॄ इति अभावः यतः, लॄ - दीर्घः भविष्यति चेत्, "अकः सवर्णे दिर्घः " (६.१.१०१ ) इति सूत्रे, पररूपैकादेशेन विहितः ल्लॢ इति वर्णः द्विमात्रिकः भविष्यति। द्वौ लकारौ तथा एतेषां मेलनं कृत्वा अयं विशेषः वर्णः जायते। (ल्लॢ = ल्+ल्+लृ )। अस्य नरसिंह-लृकारः इति नाम दीयते।