तुल्यास्यप्रयत्नं सवर्णम् [ १.१.९ ]
१. तुल्यास्यप्रयत्नं - इत्यत्र समासविग्रहं दर्शयत।
पदच्छेदः
तुल्य -आस्य - प्रयत्नम् (प्र. ए); सवर्णम् (प्र. ए )
तुल्य = समानम्
आस्य = मुखम्
सवर्णम्= संज्ञा
आस्यं च प्रयत्नं च तुल्यं यस्य तत् = बहुव्रीहि समासः
ताल्वादिस्थानम्, आभ्यन्तरप्रयत्नं च इत्येतद्द्वयं यस्य येन तुल्यं तौ सवर्णसंज्ञं स्यात्।
( ययोः वर्णयोः मुखस्थितम् उच्चारणस्थानम् आभ्यन्तरस्थानश्च समानौ स्तः, तौ वर्णौ परस्परयोः सवर्णौ इति उच्येते।)
२. "ऋऌवर्णयोर्मिथः सावर्ण्यं वाच्यम्" - अस्य वार्त्तिकस्य प्रयोजनं किम्?
यद्यपि ऋकार- लृकारयोः उच्चारणस्थानम् भिन्नं, तथापि तयोः मध्ये सावर्ण्यम् भवति।- इति वार्तिकं पाठयति।
ऋकारस्य सर्वे भेदाः, लुकारस्य च सर्वे भेदाः परस्पराणां सवर्णाः सन्ति।
अनेन वार्तिकस्य प्रकारेण त्रिंशत् वर्णाः परस्परसवर्णाः सन्ति।
विशिष्टाभ्यासः
सूत्रे आस्यशब्दस्य अपेक्षया स्थानशब्दः भवति चेत् का आपत्तिः? (यथा तुल्यस्थानप्रयत्नं सवर्णम्)
यदि तुल्यस्थानमपि सवर्णम् अस्ति चेत्, तर्हि अणुदित् सवर्णस्य चाप्रत्ययः इति सूत्रबलेन अण् प्रत्याहारे विद्यमानेन एकारेण ऐकारस्य अपि ग्रहणं भवेत्। एतादृशम् ग्रहणं संभवति चेत्, अण् प्रत्याहारे ऐकारस्य पृथक् निर्देशः व्यर्थः भवति। अतः तुल्य आस्यप्रयत्नमेव सावर्ण्यमिति ग्रहीतव्यम्।