कर्मणि शानच् - भवाता क्रियमाणे महाकार्ये अहं किं साहाय्यं करवाणि?
कर्तरि लट् - भवान् यत् महाकार्यं करोति तस्मिन् अहं किं साहाय्यं करवाणि?
कर्तरि शतृ - भवान् यत् महाकार्यं कुर्वन् अस्ति तस्मिन् अहं किं साहाय्यं करवाणि?
कर्मणि लट् - भवता यत् महाकार्यं क्रियते तस्मिन् अहं किं साहाय्यं करवाणि?
कर्तरि शानच् - भवान् यत् महाकार्यं कुर्वाण: अस्ति तस्मिन् अहं किं साहाय्यं करवाणि?
कर्मणि शानच् - मया कथ्यमानं सर्वं त्वं लिख।
कर्तरि लट् - अहं यत् कथयामि तत् सर्वं त्वं लिख।
कर्तरि शतृ - अहं यत् कथयन् अस्मि तत् सर्वं त्वं लिख।
कर्मणि लट् - मया यत् कथ्यते तत् सर्वं त्वं लिख।
कर्तरि शानच्- अहं यत् कथयमान: अस्मि तत् सर्वं त्वं लिख।