हरिः ॐ।
यत्र बहवः वृक्षाः सन्ति, तत्र तापमानम् ऊनम् अस्ति । Where there are many trees, there the temperature is low.
यत्र धेनूः पालयन्ति, तत्र क्षीरम् अधिकतया लभ्यते। Where they take care of cows, there milk is available in abundance.
यत्र वयं ह्यः गतवन्तः, तत्र अद्य पुनः गमिष्यामः । Where we went yesterday, there we will go again today.
यत्र निःशब्दः अस्ति, तत्र गत्वा शान्तिं अनुभविष्यामि । Where there is silence, there I will go and experience peace.
यत्र प्रकाशः अस्ति, भवान् तत्र उपविश्य पठतु । Where there is light, you sit there and read.
धन्यवाद: ।